Сурья-мандала-аштакам

Материал из Шайвавики
Перейти к: навигация, поиск
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
                    अथ सूर्यमण्डलाष्टकम्

नमः सवित्रे जगदेकचक्षुषे । जगत्प्रसूती स्थिति नाश हेतवे ।
त्रयीमयाय त्रिगुणात्म धारिणे । विरञ्चि नारायण शङ्करात्मन् ॥ १॥

यन्मण्डलं दीप्तिकरं विशालं । रत्नप्रभं तीव्रमनादि रूपम् ।
दारिद्र्य दुखक्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ २॥

यन्मण्डलं देव गणैः सुपूजितं । विप्रैः स्तुतं भावनमुक्ति कोविदम् ।
तं देवदेवं प्रणमामि सूर्यं । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३॥

यन्मण्डलं ज्ञान घनं त्वगम्यं । त्रैलोक्य पूज्यं त्रिगुणात्म रूपम् ।
समस्त तेजोमय दिव्यरूपं । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४॥

यन्मण्डलं गुढ़मति प्रबोधं । धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्व पाप क्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५॥

यन्मण्डलं व्याधि विनाश दक्षं । यदृग्यजुः सामसु सम्प्रगीतम् ।
प्रकाशितं येन भूर्भुवः स्वः । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६॥

यन्मण्डलं वेदविदो वदन्ति । गायन्ति यच्चारण सिद्ध सङ्घाः ।
यद्योगिनो योगजुषां च सङ्घाः । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७॥

यन्मण्डलं सर्वजनेषु पूजितं । ज्योतिश्चकुर्यादिह मर्त्यलोके ।
यत्कालकल्प क्षयकारणं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८॥

यन्मण्डलं विश्वसृजं प्रसीदमुत्पत्तिरक्षा प्रलय प्रगल्भम् ।
यस्मिञ्जगत्संहरतेऽखिलं च । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मा । परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्ये । पुनातु मां तत्सवितुर्वरेण्यम् ॥ १०॥

यन्मण्डलं वेदविदो विदन्ति । गायन्ति तच्चारणसिद्ध सङ्घाः ।
यन्मण्डलं वेदविदो स्मरन्ति । पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११॥

यन्मण्डलं वेदविदोपगीतं । यद्योगिनां योग पथानुगम्यम् ।
तत्सर्व वेदं प्रणमामि सूर्यं । पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२॥